Select Font Size

A A A A

कूर्मः शशकश्च   The Tortoise and the Hare

Quiz Vocabulary quiz
Play 0:00 0:00

एकदा एकः शशकः स्वस्य धावनवेगेन गर्वं करोति स्म   ।   सः कूर्मम् उपहसति स्म यतः सः अतिशयेन मन्दगामी आसीत्   ।   कूर्मः शान्ततया प्रत्यवदत् त्वं शीघ्रगामी भवसि किन्तु अहं स्पर्धायां त्वां पराजयितुम् शक्नोमि   ।   शशकः उच्चैः अहसत्   ।   एतद् अशक्यम्! तथापि तव स्पर्धायाः आह्वानं अङ्गीकरोमि   ।  

वनस्य पशवः स्पर्धां द्रष्टुं समागताः   ।   एकः लोमशः आरम्भबिन्दुं समाप्तिबिन्दुं च अचिह्नयत्   ।   यदा स्पर्धा आरब्धा तदा शशकः वेगेन अधावत् परन्तु कूर्मं बहु पृष्ठे आसीत्   ।   किञ्चित् दूरं धावित्वा शशकः पृष्ठतः अपश्यत्। सः शनैः शनैः आगच्छन्तं कच्छपम् अपश्यत्   ।   अयं मन्दगामी प्राणी मां कदापि प्राप्तुं (न) शक्नोति इति शशकः अचिन्तयत्   ।   आत्मविश्वासेन पूर्णः सः वृक्षस्य छायायां विश्रामार्थं सुप्तवान्   ।  

तावत् कच्छपः एकैकं मन्दं स्थिरं च पदं अस्थाप्य अग्रे गन्तुम् अनुवर्तत।   ।   सः विश्रामार्थं न अतिष्ठत् निरन्तरं पुरोधावत्   ।   शशकः यावत्कालं निद्रातुम् ऐच्छत् तस्मात् अधिकं सुप्तवान्   ।   यदा सः अन्ततः उत्थितवान् तदा सः समाप्तिरेखां प्रति अपश्यत्। तत्र प्रायः प्राप्तं कूर्मं दृष्ट्वा सः अत्यन्तं विस्मितः अभवत्।   ।   शशकः सहसा उत्थाय यथाशक्ति अधावत्   ।   किन्तु अतीव विलम्बः जातः आसीत्   ।   कूर्मः प्रथमम् एव समाप्तिरेखाम् अतिक्रान्तवान् आसीत्।   ।   जन्तवः कूर्मस्य जयघोषं कृतवन्तः।   ।   शशकः लज्जितः सन् स्वशिरम् अधः कृतवान्   ।   कूर्मः मन्दहासेन उक्तवान् मन्दं च स्थिरं च गमनं जयति स्पर्धाम्   ।  

English translation

Once, a hare was boasting about how fast he could run. He laughed at a tortoise for being extremely slow. The tortoise calmly replied, “You may be fast, but I can defeat you in a race.” The hare laughed loudly. “That's impossible! But I still accept your invitation to the challenge.”

The animals of the forest gathered to watch the race. A fox marked the starting point and the finish line. When the race began, the hare ran away quickly but the tortoise was left far behind. Having run a short distance, the hare looked back and saw the tortoise slowly walking along. “This slow moving animal can never reach me,” thought the hare. With full of confidence, he slept under the shade of a tree to rest.

Meanwhile, the tortoise continued moving forward, one slow and steady step at a time. He did not stop to rest, but kept going on. The hare slept much longer than he intended. When he finally woke up, he looked toward the finish line and was shocked to see the tortoise almost there. The hare jumped to his feet and ran as fast as he could. But it was too late. The tortoise crossed the finish line first. The animals cheered for the tortoise. The hare hung his head in shame. The tortoise smiled and said, “Slow and steady wins the race.”