Select English Font Size

A A A A

Select Sanskrit Font Size

तृषितः काकः The thristy crow Quiz Vocabulary quiz
Play 0:00 0:00

एकदा एकः काकः अतिशयेन तृषितः आसीत्   ।   सः सर्वत्र जलस्य अन्वेषणं कृतवान्   ।   अन्ते सः एकं घटं दृष्टवान्   ।   घटे अल्पं जलम् आसीत्   ।   काकः जलं पातुं प्रयत्नं कृतवान्   ।   किन्तु जलं घटस्य अधः आसीत्   ।   तस्य चञ्चुः जलं न प्राप्तवती   ।   काकः चिन्तितवान्   ।   ततः सः समीपे स्थितान् लघुशिलाखण्डान् दृष्टवान्   ।   सः एकैकां शिलां गृहीत्वा घटे क्षिप्तवान्   ।   शनैः शनैः जलस्य स्तरः उपरि आगच्छत्   ।   यदा जलं पर्याप्तम् अभवत् तदा काकः जलं पीत्वा तृष्णां शमितवान्   ।   सः अत्यन्तं प्रसन्नः अभवत्   ।