| ज्ञानोदयः | The rise of wisdom |
|
चित्रपुरस्य राजा कीर्तिसेनः । सद्यः एव अहं मरणं प्राप्स्यामि इति भीतिः तस्य मनसि कदाचित् अकस्मात् उत्पन्ना ।
मन्त्री धर्मसेनः एतं विषयं ज्ञातवान् । अतः सः समीपे अरण्ये तपः आचरतः ज्ञानानन्दमुनेः दर्शनं प्राप्य आगच्छतु इति सूचितवान् ।
कीर्तिसेनः ज्ञानानन्दस्य आश्रमं गतवान् । तत्र आत्मनः भीतिं निवेद्य पृष्टवान् भवन्तः त्रिकालज्ञाः महातपस्विनः । सर्वम् अपि जानन्ति एव । यथा मरणं मम न भवेत् तथा कर्तुं कोऽपि उपायः अस्ति वा इति ।
ज्ञानानन्दः मन्दहासं प्रकटयन् उक्तवान् महाराज ! भवान् इदानीम् अपि तारुण्ये अस्ति । सदा एवम् एव भवामि इति चिन्तयन् मरणात् भीतः भवान् । किन्तु कालान्तरे भवान् वृद्धः भविष्यति । दृष्टिः श्रवणशक्तिः च क्षीणा भविष्यति दन्ताः मुखतः निर्गमिष्यन्ति देहः दुर्बलः भविष्यति । एषः प्रकृतिधर्मः । अस्याम् अवस्थायाम् चिरं जीवितव्यम् इति आशा एव न भवति । तदा मरणम् एव इच्छति भवान् । एवं स्थिते मरणस्य भीतिः किमर्थम् ? मरणनिवारणार्थम् उपायः किमर्थम् अन्वेष्टव्यः ? इति ।
कीर्तिसेनः ज्ञानानन्दं नमस्कृत्य महात्मन् ! भवतः अनुग्रहेण मयि विवेकः उदितः । मरण भीतिः इदानीं दूरङ्गता । आगमनं सफलं जातम् इति उक्त्वा राजधानीं प्रतिगतवान् ।