Select English Font Size

A A A A

Select Sanskrit Font Size

बाणस्य लक्ष्यम् The arrow's target Quiz Vocabulary quiz
Play 0:00 0:00

वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकः   ।   कदाचित् तस्य मनसि आलोचना आगता   ।   अहं जन्मनि किमपि साधितवान्   ।   इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताः   ।   केचन लक्षाधीशाः अपि जाताः   ।   अहं तु अनामधेयः इव जीवामि इति   ।  

इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान्   ।   तत्र मार्गे कश्चन संन्यासी मिलितः   ।   संन्यासी पृष्टवान् क्रूरमृगैः व्याप्तम् एतत् अरण्यं भवान् किमर्थम् आगतवान्? इति   ।  

स्वामिन्! जीविते अहं किमपि साधितवान्   ।   अतः वैराग्येण अत्र आगतवान् इति उक्तवान् वीरवरः   ।  

संन्यासी मन्दहासं प्रकटयन् किमपि साधितवान् इति दुःखम् अनुभवति किल भवान् ! एवं तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः? इति पृष्टवान्   ।  

निर्दिष्टं लक्ष्यम् किमपि नास्ति इति उक्तवान् वीरवरः   ।   तदा संन्यासी पृष्टवान् बाणः लक्ष्ये न योजितः एव   ।   एवं स्थिते लक्ष्यम् सिद्धम् इति खेदः किमर्थम्? इति   ।  

एतेन वीरवरः विवेकं प्राप्तवान्   ।   तद्दिने एव सः अहं किमपि साधितवान् इति खेदं त्यक्त्वान्   ।   यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान्   ।